स्वयंभू स्तोत्र

(परम पूज्य मुनि श्री प्रणम्य सागर जी महाराज की मधुर वाणी में)

.

       जैन आगम साहित्य में आचार्य भगवन्तों  द्वारा अनेक स्तोत्रों की रचना की गई है । इन्हीं में से आचार्य श्री समन्तभद्र महाराज द्वारा रचित स्वयंभू स्तोत्र, एक प्रसिद्ध स्तोत्र है। इस स्तोत्र में  एक नहीं, अपितु 24 तीर्थंकर भगवन्तों की स्तुति व भक्ति समाहित है। इस स्तोत्र का पाठ शरीर और आत्मा को सकारात्मक ऊर्जा से भर देता है। आचार्य गुरुवर, मुनिराज, आर्यिकाओं और अन्य भव्य आत्माओं द्वारा  प्रात:काल की बेला में, इसी स्तोत्र का पाठ करके, अपने दिन का शुभारम्भ किया जाता है।

       परम पूज्य मुनि श्री प्रणम्य सागर जी महाराज की मधुर वाणी को श्रवण करके श्रोताओं के मन पुष्प की तरह खिल जाते हैं। उन्हीं की कर्णप्रिय और मनमोहक वाणी में स्वयंभू स्तोत्र को, श्रवण करने का लाभ, यहां लिया जा सकता है। पूज्य मुनि श्री के मधुर स्वर में प्रस्तुत इस पाठ की बहुत अनोखी विशेषता ये है कि इसमें पूज्य मुनि श्री ने अलग अलग लय और स्वर में तीर्थंकर भगवानों की स्तुति की है। इस तरह की विशेषता कम ही देखने को मिलती है। स्वयंभू स्तोत्र के इस पाठ में जैसे ही नई स्तुति के साथ में लय बदलती है, वह श्रोताओं के दिल को छू लेती है और उनको पाठ में अनुपम आनन्द की अनुभूति होती है। इसके साथ ही, इस पेज पर दिये गये स्वंयभू स्तोत्र के Text को पढ़ते हुए और पूज्य मुनि श्री को सुनते हुए, इसका पाठ करना भी सीखा जा सकता है ।

 श्रोताओं की रुचि को ध्यान में रखते हुए स्वयंभू स्तोत्र के पूरे पाठ के अतिरिक्त, पूज्य मुनि श्री की मधुर वाणी में सभी तीर्थंकर भगवानों की, पृथक – पृथक स्तुति को  भी यहां उपलब्ध कराया गया है—

.

स्वयंभू स्तोत्र Audio

.

स्वयंभू स्तोत्र PDF

.

.

स्वयंभू स्तोत्र में समाहित 24 तीर्थंकर भगवंतों की पृथक पृथक स्तुति पूज्य मुनि श्री के मधुर स्वर में —

1. अथ वृषभ जिन स्तोत्र

स्वयम्भुवा भूतहितेन भूतले, समञ्जसज्ञानविभूतिचक्षुषा ।
विराजितं येन विधुन्वता तमः, क्षपाकरेणेव गुणोत्करैः करैः ।। 1 ।।

प्रजापति र्यः प्रथमं जिजीविषूः शशास कृष्यादिषु कर्मसु प्रजाः।
प्रबुद्धतत्त्वः पुनद्भुतोदयो, ममत्वतो निर्विविदे विदांवरः ।। 2 ।।


विहाय यः सागरवारिवाससं, वधूमिवेमां वसुधावधूं सतीम् ।
मुमुक्षुरिक्ष्वाकुकुलादिरात्मवान् प्रभुःप्रवव्राज सहिष्णुरच्युतः।। 3 ।।

स्वदोषमूलं स्वसमाधितेजसा, निनाय यो निर्दयभस्मसात्क्रियाम्।
जगाद तत्त्वं जगतेऽर्थिनेऽञ्जसा, बभूव च ब्रह्मपदामृतेश्वरः।। 4 ।।


स विश्वचक्षु र्वृषभोऽर्चितः सतां, समग्रविद्यात्मवपुनिर्रञ्जनः।
पुनातु चेतो मम नाभिनन्दनो, जिनो जित क्षुल्लकवादिशासनः।। 5 ।।

.

2. श्री अजित जिन स्तुति

यस्य प्रभावात् त्रिदिवच्युतस्य, क्रीडास्वपि क्षीवमुखारविन्दः ।
अजेयशक्ति र्भुवि बन्धुवर्गश्चकार नामाऽजित इत्यबन्ध्यम् ।।6।।

अद्यापि यस्याजितशासनस्य, सतां प्रणेतुः प्रतिमङ्गलार्थम्।
प्रगृह्यते नाम परं पवित्रं, स्वसिद्धिकामेन जनेन लोके ।। 7 ।।


यः प्रादुरासीत् प्रभुशक्तिभूम्ना, भव्याशयालीनकलङ्कशान्त्यै ।
महामुनि – र्मुक्तघनोपदेहो, यथाऽरविन्दाभ्युदयाय भास्वान् ।।8।।

येन प्रणीतं पृथुधर्मतीर्थं, ज्येष्ठं जनाः प्राप्य जयन्ति दुःखम् ।
गाङ्गं हृदं चन्दनपङ्कशीतं, गजप्रवेका इव घर्म तप्ताः ।।9।।


स ब्रह्मनिष्ठः सममित्रशत्रुर, विद्याविनिर्वान्तकषाय दोषः ।
लब्धात्मलक्ष्मीरजितो जितात्मा, जिनश्रियं मे भगवान् विधत्ताम् ।।10।।

.

3. श्री सम्भव जिन स्तोत्र

त्वं शम्भवः संभवतर्षरोगैः, संतप्यमानस्य जनस्य लोके ।
आसीरिहाकस्मिक एव वैद्यो, वेद्यो यथाऽनाथरुजां प्रशान्त्यै ।। 1 ।।

अनित्यमत्राणमहं क्रियाभिः, प्रसक्तमिथ्याऽध्यवसायदोषम् ।
इदं जगज्जन्मजरान्तकार्तं, निरञ्जनां शान्तिमजीगमस्त्वम् ।। 2 ।।


शतहृदोन्मेषचलं हि सौख्यं, तृष्णामयाप्यायनमात्र हेतुः ।
तृष्णाभिवृद्धिश्च तपत्यजस्त्रं, तापस्तदायासयतीत्यवादीः ।। 3 ।।

बन्धश्च मोक्षश्च तयोश्च हेतू, बद्धश्च मुक्तश्च फलं च मुक्तेः।
क्या नाथ तवैव युक्तं, नैकान्तदृष्टेस्त्वमतोऽसि शास्ता ।। 4 ।।


शक्रोऽप्यशक्तस्तव पुण्यकीर्तेः स्तुत्यां प्रवृत्तः किमु मादृशोऽज्ञः।
तथापि भक्त्या स्तुतपादपद्मो, ममार्य! देयाः शिवतातिमुच्चैः ।। 5 ।।

.

4. श्री अभिनन्दन जिन स्तोत्र

गुणाभिनन्दादभिनन्दनो भवान् दयावधूं क्षान्तिसखीमशिश्रियत्।
समाधितन्त्रस्तदुपोपपत्तये, द्वयेन नैर्ग्रन्थ्यगुणेन चाऽयुजत् ।। 16।।

अचेतने तत्कृतबन्धजेऽपि च, ममेदमित्याभिनिवेशिकग्रहात्।
प्रभंगुरे स्थावरनिश्चयेन च, क्षतं जगत्तत्त्वमजिग्रहद्भवान् ।। 17।।


क्षुदादिदुःखप्रतिकारतःस्थितिर्, न चेन्द्रियार्थप्रभवाल्पसौख्यतः।
ततो गुणो नास्ति च देहदेहिनो रितीदमित्थं भगवान् व्यजिज्ञपत् ।। 18 ।।

जनोऽतिलोलोऽप्यनुबन्ध दोषतो, भयादकार्येष्विह न प्रवर्तते ।
इहाऽप्यमुत्राऽप्यनुबन्धदोषवित्कथं सुखे संसजतीति चाऽब्रवीत् ।। 19 ।।


स चाऽनुबन्धोऽस्य जनस्य तापकृत्तृषोऽभिवृद्धिः सुखतो न च स्थितिः ।
इति प्रभो लोकहितं यतो मतं, ततो भवानेव गतिः सतां मतः ।। 20 ।।

.

5. श्री सुमतिनाथ जिन स्तोत्र

अन्वर्थसंज्ञः सुमतिर्मुनिस्त्वं, स्वयं मतं येन सुयुक्तिनीतम्।
यतश्च शेषेषु मतेषु नास्ति, सर्वक्रियाकारकतत्त्वसिद्धिः।। 21 ।।

अनेकमेकं च तदेव तत्त्वं, भेदान्वयज्ञानमिदं हि सत्यम् ।
मृषोपचारोऽन्यतरस्य लोपे तच्छेषलोपोऽपि ततोऽनुपाख्यम् ।। 22 ।।


सतः कथंचित् तदसत्वशक्तिः खे नास्ति पुष्पं तरुषुप्रसिद्धम्।
सर्वस्वभावच्युतमप्रमाणं, स्ववाग्-विरुद्धं तव दृष्टितोऽन्यत् ।। 23 ।।

न सर्वथा नित्यमुदेत्यपैति न च क्रियाकारकमत्र युक्तम्।
नैवासतो जन्म सतो न नाशो, दीपस्तमः पुद्गलभावतोऽस्ति ।। 24 ।।


विधिर्निषेधश्च कथञ्चिदिष्टौ, विवक्षया मुख्यगुणव्यवस्था ।
इति प्रणीतिः सुमतेस्तवेयं, मतिप्रवेकः स्तुवतोऽस्तु नाथ ।। 25 ।।

.

6. श्री पदमप्रभ जिन स्तोत्र

पद्मप्रभः पद्मपलाशलेश्यः पद्मालयालिङ्गित चारुमूर्तिः ।
बभौ भवान् भव्यपयोरुहाणां, पद्माकराणामिव पद्मबन्धुः ।। 26 ।।

बभार पद्मां च सरस्वतीं च, भवान् पुरस्तात् प्रतिमुक्तिलक्ष्म्याः।
सरस्वतीमेव समग्रशोभां, सर्वज्ञलक्ष्मीं ज्वलितां विमुक्तः ।। 27 ।।


शरीररश्मिप्रसरः प्रभोस्ते, बालार्करश्मिमच्छविरालिलेप।
नरामराकीर्णसभां प्रभावच्, छैलस्य पद्माभमणेः स्वसानुम् ।। 28 ।।

नभस्तलं पल्लवयन्निव त्वं, सहस्र पत्राम्बुजगर्भचारैः ।
पादाम्बुजैः पातितमारदर्पो, भूमौ प्रजानां विजहर्थ भूत्यै ।। 29 ।।


गुणाम्बुधे – र्विप्रुषमप्यजस्रं, नाखण्डलः स्तोतुमलं तवर्षेः ।
प्रागेव मादृक् किमुताति भक्तिर्मां बालमालापयतीदमित्थम् ।। 30 ।।

.

7. श्री सुपार्श्व जिन स्तोत्र

स्वास्थ्यं यदाऽऽत्यन्तिकमेष पुंसां, स्वार्थो न भोगः परिभंगुरात्मा ।
तृषोऽनुषङ्गान्न च तापशान्तिरितीदमाख्यद् भगवान् सुपार्श्वः ।। 31 ।।

अजङ्गमं जङ्गमनेय यन्त्रं, यथा तथा जीवधृतं शरीरम् ।
बीभत्सु पूति क्षयि तापकं च, स्नेहो वृथाऽत्रेति हितं त्वमाख्यः ।। 32 ।।


अलंघ्यशक्ति- र्भवितव्यतेयं, हेतुद्वयाविष्कृत-कार्यलिङ्गा ।
अनीश्वरो जन्तुरहंक्रियार्तः, संहत्य कार्येष्विति साध्ववादीः ।। 33 ।।

बिभेति मृत्योर्न ततोऽस्ति मोक्षो, नित्यं शिवं वाञ्छति नाऽस्य लाभः ।
तथापि बालो भयकामवश्यो, वृथा स्वयं तप्यत इत्यवादीः ।। 34 ।।


सर्वस्य तत्त्वस्य भवान् प्रमाता, मातेव बालस्य हिताऽनुशास्ता ।
गुणावलोकस्य जनस्य नेता, मयापि भक्त्या परिणूयसेऽद्य  ।। 35 ।।

.

8. श्री चन्द्रप्रभजिन स्तोत्र

चन्द्रप्रभं चन्द्रमरीचिगौरं, चन्द्रं द्वितीयं जगतीव कान्तम् ।
वन्देऽभिवन्द्यं महतामृषीन्द्रं, जिनं जितस्वान्तकषायबन्धम् ।। 36 ।।

यस्याङ्गलक्ष्मीपरिवेषभिन्नं तमस्तमोऽरेरिव रश्मिभिन्नम्।
ननाश बाह्यं बहुमानसं च, ध्यानप्रदीपातिशयेन भिन्नम् ।। 37 ।।


स्वपक्षसौस्थित्यमदाऽवलिप्ता, वाक्सिंहनादैर्विमदा बभूवुः ।
प्रवादिनो यस्य मदार्द्रगण्डा, गजा यथा केसरिणो निनादैः ।। 38 ।।

यः सर्वलोके परमेष्ठितायाः पदं बभूवाद्भुतकर्मतेजाः ।
अनन्तधामाक्षरविश्वचक्षुः, समन्तदुः खक्षयशासनश्च ।। 39 ।।


स चन्द्रमा भव्यकुमुद्वतीनां, विपन्नदोषाभ्रकलङ्कलेपः ।
व्याकोशवाङ न्यायमयूखमालः, पूयात्पवित्रो भगवान्मनो मे ।। 40 ।।

.

9. श्री सुविधिजिनस्तवनम्

एकान्तदृष्टिप्रतिषेधि तत्त्वं, प्रमाणसिद्धं तदतत्स्वभावम् ।
त्वया प्रणीतं सुविधे! स्वधाम्ना, नैतत्समालीढपदं त्वदन्यैः ॥ 41॥

तदेव च स्यान् न तदेव च स्यात्, तथाप्रतीतेस्तव तत्कथञ्चित् ।
नात्यन्तमन्यत्वमनन्यता च, विधेर्निषेधस्य च शून्यदोषात् ।। 42 ।।


नित्यं तदेवेदमिति प्रतीतेर् न नित्यमन्यत् प्रतिपत्ति सिद्धेः ।
न तद्विरुद्धं बहिरन्तरङ्ग, निमित्तनैमित्तिकयोगतस्ते ।। 43 ।।

अनेकमेकं च पदस्य वाच्यं, वृक्षा इति प्रत्ययवत् प्रकृत्या ।
आकाङ्क्षिणः स्यादिति वै निपातो, गुणानपेक्षे नियमेऽपवादः ।। 44 ।।


गुणप्रधानाथमिदं हि वाक्यं, जिनस्य ते तद् द्विषतामपथ्यम् ।
ततोऽभिवन्द्यं जगदीश्वराणां, ममापि साधोस्तव पादपद्मम् ।। 45 ।।

.

10. श्री शीतलजिनस्तवनम्

न शीतलाश् चन्दनचन्द्ररश्मयो,  न गाङ्गमम्भो न च हारयष्टयः ।
यथामुनेस्तेऽनघवाक्यरश्मयः शमाम्बुगर्भाः शिशिराविपश्चिताम् ।। 46 ।।

सुखाभिलाषानलदाहमूर्च्छितं, मनो निजं ज्ञानमयामृताम्बुभिः ।
व्यदिध्यपस्त्वं विषदाहमोहितं, यथा भिषग्मन्त्रगुणैः स्वविग्रहम् ।। 47 ।।


स्वजीविते काम सुखे च तृष्णया, दिवा श्रमार्ता निशि शेरते प्रजाः ।
त्वमार्य नक्तंदिवमप्रमत्तवानजागरेवात्मविशुद्धवर्त्मनि ।। 48 ।।

अपत्यवित्तोत्तरलोकतृष्णया, तपस्विनः केचन कर्म कुर्वते ।
भवान् पुनर्जन्मजराजिहासया, त्रयीं प्रवृत्तिं समधीरवारुणत् ।। 49 ।।


त्वमुत्तमज्योतिरजः क्व निर्वृतः क्व ते परे बुद्धिलवोद्धवक्षताः।
ततः स्वनिः श्रेयसभावनापरैर्, बुधप्रवेकैर्जिनशीतलेड्यसे ।। 50 ।।

.

11. श्री श्रेयोजिनस्तवनम्

श्रेयान जिनः श्रेयसि वर्त्मनीमाः श्रेयः प्रजाः शासदजेयवाक्यः ।
भवांश्चकासे भुवनत्रयेऽस्मिन्नेको यथा वीतघनो विवस्वान् ।। 51 ।।

विधि र्विषक्तप्रतिषेधरूपः प्रमाणमत्रान्यतरत्प्रधानम् ।
गुणोऽपरो मुख्यनियामहेतुर्, नयः स दृष्टान्तसमर्थनस्ते ।। 52 ।।


विवक्षितो मुख्य इतीष्यतेऽन्यो, गुणोऽविवक्षो न निरात्मकस्ते ।
तथारिमित्रानुभयादिशक्तिर्, द्वयावधिः कार्यकरं हि वस्तु ।। 53 ।।

दृष्टान्तसिद्धावुभयो-र्विवादे, साध्यं प्रसिद्धयेन् न तु तादृगस्ति ।
यत्सर्वथैकान्तनियामिदृष्टं, त्वदीय दृष्टिर्विभवत्यशेषे ।। 54 ।।


एकान्तदृष्टिप्रतिषेधसिद्धिर् न्यायेषुभि र्मोहरिपुं निरस्य ।
असि स्म कैवल्यविभूतिसम्राट्, ततस्त्वमर्हन् नसि मे स्तवार्हः ।। 55 ।।

.

12. श्री वासुपूज्यजिनस्तवनम्

शिवासु पूज्योऽभ्युदयक्रियासु, त्वं वासुपूज्यस् त्रिदशेन्द्रपूज्यः ।
मयापि पूज्योऽल्पधिया मुनीन्द्र, दीपार्चिषा किं तपनो न पूज्यः ।। 56 ।।

न पूजयार्थस्त्वयि वीतरागे, न निन्दया नाथ विवान्त वैरे ।
तथापि ते पुण्यगुणस्मृति र्नः, पुनातु चित्तं दुरिताञ्जनेभ्यः ।। 57 ।।


पूज्यं जिनं त्वाऽर्चयतो जनस्य, सावद्यलेशो बहुपुण्यराशौ ।
दोषाय नालं कणिका विषस्य, न दूषिका शीतशिवाम्बुराशौ ।। 58 ।।

यद्वस्तु बाह्यं गुणदोषसूतेर्, निमित्तमभ्यन्तरमूलहेतोः ।
अध्यात्म वृत्तस्य तदङ्गभूतमभ्यन्तरं केवलमप्यलं ते ।। 59 ।।


बाह्ये तरो पाधिसमग्रतेयं, कार्येषु ते द्रव्यगतः स्वभावः ।
नैवाऽन्यथा मोक्षविधिश्च पुंसां, तेनाऽभिवन्द्यस्त्वमृषिर्बुधानाम् ।। 60 ।।

.

13. श्री विमलजिनस्तवनम्

य एव नित्यक्षणिकादयो नया, मिथोऽनपेक्षाः स्वपरप्रणाशिनः ।
त एव तत्त्वं विमलस्य ते मुनेः, परस्परेक्षाः स्वपरोपकारिणः ।। 61 ।।

यथैकशः कारकमर्थसिद्धये, समीक्ष्य शेषं स्वसहायकारकम् ।
तथैव सामान्यविशेषमातृका, नयास्तवेष्टा गुणमुख्यकल्पतः ।। 62 ।।


परस्परेक्षाऽन्यवभेदलिङ्गतः, प्रसिद्धसामान्यविशेषयो स्तव ।
समग्रताऽस्ति स्वपरावभासकं, यथा प्रमाणं भुवि बुद्धिलक्षणम् ।। 63 ।।

विशेष्यवाच्यस्य विशेषणं वचो, यतो विशेष्यं विनियम्यते च यत् ।
तयोश्च सामान्यमतिप्रसज्यते, विवक्षितात्स्यादिति तेऽन्यवर्जनम् ।। 64 ।।


न्यास्तव स्यात्पदसत्यलाञ्छिता, रसोपविद्धा इव लोहधातवः ।
भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः ।। 65 ।।

.

14. श्री अनन्तजिनस्तवनम्

अनन्तदोषाशयविग्रहो ग्रहो, विषङ्गवान् मोहमयश्चिरं हृदि ।
यतो जितस्तत्त्वरुचौ प्रसीदता, त्वया ततोऽभू र्भगवाननन्तजित् ।। 66 ।।

कषायनाम्नां द्विषतां प्रमाथिना, मशेषयन्नाम भवानशेषवित् ।
विशोषणं मन्मथ – दुर्मदामयं, समाधिभैषज्यगुणे- र्व्यलीनयत ।। 67 ।।


परिश्रमाऽम्बुर्भयवीचिमालिनी, त्वया स्वतृष्णासरिदार्य! शोषिता ।
अङ्गघर्मार्कगभस्तितेजसा, परं ततो निर्वृतिधाम तावकम् ।। 68 ।।

सुहृत्त्वयि श्रीसुभगत्वमश्नुते, द्विषंस्त्वयि प्रत्ययवत्प्रलीयते ।
भवानुदासीनतमस्तयोरपि, प्रभो परं चित्रमिदं तवेहितम् ।। 69 ।।


त्वमीदृशस्तादृश इत्ययं मम, प्रलापलेशोऽल्पमते-र्महामुने! ।
अशेषमाहात्म्यमनीरयन्नपि, शिवाय संस्पर्श इवामृताम्बुधेः ।। 70 ।।

.

15. श्री धर्मजिनस्तवनम्

धर्मतीर्थमनघं प्रवर्तयन्, धर्म इत्यनुमतः सतां भवानभूत्।
कर्मकक्षमदहत्तपोऽग्निभिः शर्म शाश्वतमवाप शङ्करः ।। 71 ।।

देवमानव – निकाय – सत्तमै-रेजिषे परिवृतो वृतो बुधैः ।
तारकापरिवृतोऽतिपुष्कलो, व्योमनीवशशलाञ्छनोऽमलः ।। 72 ।।


प्रातिहार्यविभवैः परिष्कृतो, देहतोऽपि विरतो भवानभूत्।
मोक्षमार्गमशिषन् नरामरान् नापि शासनफलैषणातुरः ।। 73 ।।

कायवाक्यमनसां प्रवृत्तयो, नाभवंस्तव मुनेश्चिकीर्षया ।
नासमीक्ष्य भवतः प्रवृत्तयो, धीर तावकमचिन्त्यमीहितम् ।। 74 ।।


मानुषीं प्रकृतिमभ्यतीतवान्, देवतास्वपि च देवता यतः ।
तेन नाथ परमासि देवता, श्रेयसे जिनवृष ! प्रसीद नः ।। 75 ।।

.

16. श्री शान्तिजिनस्तवनम्

विधाय रक्षां परतः प्रजानां, राजा चिरं योऽप्रतिमप्रतापः ।
व्यधात्पुरस्तात्स्वत एव शान्ति – र्मुनिर्दयामूर्तिरिवाऽघशान्तिम् ।। 76 ।।

चक्रेण यः शत्रुभयंकरेण, जित्वा नृपः सर्व-नरेन्द्रचक्रम् ।
समाधिचक्रेण पुन-र्जिगाय, महोदयो दु र्जंयमोहचक्रम् ।। 77 ।।


राजश्रिया राजसु राजसिंहो, रराजयो राजसुभोगतन्त्रः ।
आर्हन्त्य-लक्ष्म्या पुनरात्मतन्त्रो, देवासुरोदारसभे रराज ।। 78 ।।

यस्मिन् नभूद्राजनि राजचक्रं, मुनौ दयादीधिति धर्मचक्रम् ।
पूज्ये मुहुः प्राञ्जलि देवचक्रं, ध्यानोन्मुखे ध्वंसि कृतान्तचक्रम् ।। 79 ।।


स्वदोषशान्त्याविहितात्मशान्तिः शान्ते र्विधाता शरणं गतानाम् ।
भूयाद् भवक्लेशभयोपशान्त्यै, शान्तिर्जिनो मे भगवान्शरण्यः ।। 80 ।।

.

17. श्री कुन्थुजिनस्तवनम्

कुन्थु – प्रभृत्यखिल- सत्त्व – दयैक- तानः
कुन्थु- र्जिनोज्वर-जरा-मरणोपशान्त्यै ।
त्वं धर्मचक्रमिह वर्तयसि स्म भूत्यै,
भूत्वा पुरा क्षितिपतीश्वरचक्रपाणिः  ।। 81 ।।

तृष्णार्चिषः परिदहन्ति न शान्तिरासा
मिष्टेन्द्रियार्थ- विभवैः परिवृद्धिरेव ।
स्थित्यैव काय- परिताप- हरं निमित्त
मित्यात्मवान्विषयसौख्यपराङ्मुखोऽभूत् ।। 82 ।।


बाहां तपः परम-दुश्चरमा – चरंस्त्व,
माध्यात्मिकस्य  तपसः परिबृंहणार्थम् ।
ध्यानं निरस्य कलुष – द्वय- मुत्तरस्मिन्
ध्यानद्वये ववृतिषेऽतिशयोपपन्ने ।। 83 ।।

हुत्वा स्व – कर्म – कटुक – प्रकृतिश् चतस्रो,
रत्नत्रयातिशय – तेजसि – जात – वीर्यः ।
बभ्राजिषे सकल – वेद- विधे- र्विनेता,
व्यभ्रे यथा वियति दीप्तरुचि – र्विवस्वान् ।। 84 ।।


यस्मान् मुनीन्द्र ! तव लोक पिता महाद्या,
विद्या विभूति – कणिका – मपि नाप्नुवन्ति ।
तस्माद भवन्त मज गप्रतिमेय – मार्याः
स्तुत्यं स्तुवन्ति सुधियः स्वहितैकतानाः ।। 85 ।।

.

18. श्री अरजिनस्तवनम्

गुणस्तोकं सदुल्लङ्घ्य, तद् बहुत्वकथास्तुतिः।
आनन्त्यात्ते गुणा वक्तु, मशक्यास्त्वयि सा कथम् ।। 86 ।।

तथापि ते मुनीन्द्रस्य, यतो नामापि कीर्तितम् ।
पुनाति पुण्यकीर्तेर्नस्, ततो, ब्रूयाम किञ्चन ।। 87 ।।


लक्ष्मीविभवसर्वस्वं, मुमुक्षोश्चक्रलाञ्छनम् ।
साम्राज्यं सार्वभौमं ते, जरत्तृणमिवाभवत् ।। 88 ।।


तव रूपस्य सौन्दर्यं, दृष्ट्वा तृप्तिमनापिवान् ।
द्वयक्षः शक्रः सहस्त्राक्षो, बभूव बहुविस्मयः ।। 89 ।।

मोहरूपो रिपुः पापः, कषायभटसाधनः ।
दृष्टिसंपदुपेक्षाऽस्त्रैस्त्वया धीर! पराजितः ।। 90 ।।

कन्दर्पस्योद्धरो दर्पस् त्रैलोक्य विजयाऽर्जितः ।
ह्रेपयामास तं धीरे, त्वयि प्रतिहतोदयः ।। 91 ।।


आयत्यां च तदात्वे च, दुःखयो निर्दुरुत्तरा ।
तृष्णानदी त्वयोत्तीर्णा, विद्यानावा विविक्तया ।। 92 ।।

अन्तकः क्रन्दको न्हणां, जन्मज्वरसखः सदा ।
त्वामन्तकान्तकं प्राप्य, व्यावृत्तः कामकारतः ।। 93 ।।

भूषावेषायुधत्यागि, विद्यादमदयापरम् ।
रूपमेव तवाचष्टे, धीर! दोषविनिग्रहम् ॥ 94 ।।


समन्ततोऽङ्गभासां ते, परिवेषेण भूयसा ।
तमो बाह्यमपाकीर्णमध्यात्मं ध्यानतेजसा ।। 95 ।।

सर्वज्ञज्योतिषोद्भूतस्, तावको महिमोदयः ।
कं न कुर्यात् प्रणम्रं ते, सत्त्वं नाथ! सचेतनम् ।। 96 ।।

तव वागमृतं श्रीमत्, सर्वभाषास्वभावकम् ।
प्रीणयत्यमृतं यद्वत्, प्राणिनो व्यापि संसदि ।। 97 ।।


अनेकान्तात्म दृष्टिस्ते, सती शून्यो विपर्ययः ।
ततः सर्वं मृषोक्तं स्यात्, तदयुक्तं स्वघाततः ।। 98 ।।

ये परस्खलितोन् निद्राः स्वदोषेभ निमीलिनः ।
तपस्विनस्ते किं कुर्यु, रपात्रं त्वन्मतश्रियः ।। 99 ।।

ते तं स्वघातिनं दोषं, शमीकर्तुमनीश्वराः ।
त्वद्विषः स्वहनो बालास्तत्त्वावक्तव्यतां श्रिताः ।। 100 ।।


सदेकनित्यवक्तव्यास् तद्विपक्षाश्च ये नयाः ।
सर्वथेति प्रदुष्यन्ति, पुष्यन्ति स्यादितीह ते ।। 101 ।।

सर्वथा नियम त्यागी, यथादृष्ट-मपेक्षकः ।
स्याच्छब्दस्तावके न्याय, नान्येषामात्मविद्विषाम् ।। 102 ।।

अनेकान्तो ऽप्यनेकान्तः, प्रमाणनयसाधनः ।
अनेकान्तः प्रमाणात् ते, तदेकान्तोऽर्पितान्नयात् ।। 103 ।।


इति निरुपमयुक्तशासनः, प्रियहितयोगगुणानुशासनः ।
अरजिन! दमतीर्थनायकस् त्वमिव सतां प्रतिबोधनायकः ।। 104 ।।

मतिगुणविभवानुरूपतस् त्वयि वरदागमदृष्टिरूपतः ।
गुणकृशमपि किञ्चनोदितं, मम भवताद् दुरितासनोदितम् ।। 105 ।।

.

19. श्री मल्लिनाथ जिनस्तवनम्

यस्य महर्षेः सकलपदार्थप्रत्यवबोधः समजनि साक्षात् ।
सामरमर्त्यं जगदपि सर्वं, प्राञ्जलि भूत्वा प्रणिपतति स्म ।। 106 ।।

यस्य च मूर्तिः कनकमयीव, स्वस्फुरदाभाकृतपरिवेषा।
वागपि तत्त्वं कथयितुकामा, स्यात्पदपूर्वा रमयति साधून् ।। 107 ।।


यस्य पुरस्ताद् विगलितमाना, न प्रतितीर्थ्या भुवि विवदन्ते ।
भूरपि रम्या प्रतिपदमासीज्, जातविकोशाम्बुजमृदुहासा ।। 108 ।।

यस्य समन्ताज् जिनशिशिरांशोः शिष्यकसाधुग्रहविभवोऽभूत् ।
तीर्थमपि स्वं जननसमुद्र , त्रासितसत्त्वोत्तरणपथोऽग्रम् ।। 109 ।।


यस्य च शुक्लं परमतपोऽग्निर्, ध्यानमनन्तं दुरितमधाक्षीत् ।
तं जिनसिंहं कृतकरणीयं, मल्लिमशल्यं शरणमितोऽस्मि ।। 110 ।।

.

20. श्री मुनिसुव्रतजिनस्तवनम्

अधिगतमुनिसुव्रतस्थितिर्, मुनिवृषभो मुनिसुव्रतोऽनघः।
मुनिपरिषदि निर्बभौ भवा, नुडुपरिषत्परिवीतसोमवत् ।। 111 ।।

परिणत – शिखि – कण्ठरागया, कृतमद – निग्रह – विग्रहाभया ।
तव जिन! तपसः प्रसूतया, ग्रहपरिवेषरुचेव शोभितम् ।। 112 ।।


शशिरुचिशु चिशु क्ललोहितं सुरभितरं विरजो निजं वपुः ।
तव शिवमतिविस्मयं यते! यदपि च वाङ्मनसीयमीहितम् ।। 113 ।।

स्थितिजनननिरोधलक्षणं, चरमचरं च जगत् प्रतिक्षणम्।
इति जिन! सकलज्ञलाञ्छनं, वचनमिदं वदतां वरस्य ते ।। 114 ।।


दुरित – मलकलङ्क – मष्टकं, निरुपम – योगबलेन निर्दहन् ।
अभवदभवसौख्यवान् भवान्, भवतु ममापि भवोपशान्तये ।। 115 ।।

.

21. श्री नमिजिनस्तवनम्

स्तुतिः स्तोतुः साधोः कुशलपरिणामाय स तदा, भवेन् मा वा स्तुत्यः, फलमपि ततस्तस्य च सतः ।
किमेवं स्वाधीन्याज, जगति सुलभे श्रायसपथे, स्तुयान्न त्वा विद्वान् सततमभिपूज्यं नमिजिनम् ।। 116 ।।

त्वया धीमन्! ब्रह्म, प्रणिधिमनसा जन्मनिगलं, समूलं निर्भिन्नं, त्वमसि विदुषां मोक्षपदवी।
त्वयि ज्ञानज्योतिर्, विभवकिरणै र्भाति भगवन्, नभूवन् खद्योता, इव शुचि रवावन्यमतयः ।। 117 ।।


विधेयं वार्यं चा, नुभयमुभयं मिश्रमपि तद्, विशेषै: प्रत्येकं, नियमविषयैश्चापरिमितैः।
सदाऽन्योऽन्यापेक्षैः, सकलभुवनज्येष्ठगुरुणा, त्वया गीतं तत्त्वं, बहुनयविवक्षेतरवशात् ।। 118 ।।

अहिंसा भूतानां, जगति विदितं ब्रह्म परमं, न सा तत्रारम्भोऽस्, त्यणुरपि च यत्राश्रमविधौ ।
ततस्तत् सिद्धयर्थं परमकरुणो ग्रन्थमुभयं, भवानेवात्याक्षीन्, न च विकृतवेषोपधिरतः ।। 119 ।।


वपु – र्भूषावेष, व्यवधि-रहितं शान्तकरणं, यतस्ते संचष्टे, स्मरशरविषातंक – विजयम् ।
विना भीमैः शस्त्रै-, रदय – हृदयामर्ष- विलयं, ततस्त्वं निर्मोहः, शरणमसि नः शान्तिनिलयः ।। 120 ।।

.

22. श्री अरिष्टनेमिजिनस्तवनम्

भगवानृषिः परमयोग – दहन – हुत कल्मषेन्धनः।
ज्ञानविपुलकिरणैः सकलं, प्रतिबुद्ध्यबुद्धकमलायते क्षणः ।। 121।।

हरिवंश – केतुरनवद्य – विनय – दमतीर्थ – नायकः।
शीलजलधिर भवोविभवस्त्वमरिष्टनेमिजिनकुञ्जरो ऽजरः ।। 122 ।।


त्रिदशेन्द्र – मौलि – मणिरत्न – किरण – विसरो पचु म्बितम् ।
पादयुगलममलं भवतो, विकसत्कुशेशयदलारुणोदरम् ।। 123 ।।

नख – चन्द्ररश्मि – कवचाति – रुचिर – शिखराङ गुलिस्थलम् ।
स्वार्थनियतमनसः सुधियः प्रणमन्ति मन्त्रमुखरा महर्षयः ।। 124 ।।


द्यु तिमद्र थाङ्ग – रविबिम्ब- किरण – जटिलांशु मण्डल: ।
नीलजलद – जलराशिवपुः सह बन्धुभिर्गरुडकेतुरीश्वरः ।। 125 ।।

हलभृच्च ते स्वजन – भक्ति – मुदित – हृदयौ जनेश्वरौ ।
धर्मविनयरसिकौ सुतरां,व चरणारविन्दयुगलं प्रणेमतुः ।। 126 ।।

ककुदं भुवः खचर – योषिदुषित- शिखरै: रलङ्कृतः।
मेघपटलपरिवीततटस्तव, लक्षणानि लिखितानि वज्रिणा ।। 127 ।।


वहतीति तीर्थमृषिभिश्च, सततमभिगम्यतेऽद्य च ।
प्रीतिविततहृदयैः परितो, भृशमूर्जयन्त इति विश्रुतोऽचलः ।। 128 ।।

बहिरन्तरप्यु भयथा च , करण-मविघाति नार्थकृत ।
नाथ! युगपदखिलं च सदा, त्वमिदं तलामलकवद्विवेदिथ ।। 129 ।।


अत एव ते बुधनुतस्य चरित – गुणमद्भुतोदयम् ।
न्यायविहितमवधार्य जिने, त्वयि सुप्रसन्नमनसः स्थिता वयम् ।। 130 ।।

.

23. श्री पार्श्वजिनस्तवनम्

तमालनीलैः सधनुस्तडिद्गुणैः,  प्रकीर्णभीमाशनिवायुवृष्टिभिः ।
बलाहकै र्वैरिवशैरुपद्रुतो, महामना यो न चचाल योगतः ।। 131 ।।

बृहत्फणामण्डल –  मण्डपेन यं,  स्फुरत्तडित्पिङ्ग – रुचोपसर्गिणम् ।
जुगूह नागो धरणो धराधरं,  विरागसंध्यातडिदम्बुदो  यथा ।। 132 ।।


स्वयोगनिस्त्रिंशनिशातधारया,  निशात्य यो दुर्जयमोहविद्विषम् ।
अवापदार्हन्त्यमचिन्त्यमद्भुतं,  त्रिलोकपूजातिशयास्पदं पदम् ।। 133 ।।

यमीश्वरं वीक्ष्य विधूतकल्मषं,  तपो धनास्तेऽपि तथा बुभूषवः ।
वनौकसः  स्वश्रमवन्ध्यबुद्धयः,  शमोपदेशं शरणं प्रपेदिरे ।। 134 ।।


स  सत्यविद्यातपसां  प्रणायकः,  समग्र धीरुग्र कुलाम्बरांशुमान् ।
मया  सदा पार्श्वजिनः प्रणम्यते,  विलीनमिथ्यापथदृष्टि  विभ्रमः ।। 135 ।।

.

24. श्री वीरजिनस्तवनम्

कीर्त्या भुवि भासि तया, वीर ! त्वं गुणसमुच्छ्या भासितया,
भासोडुसभाऽऽसितया, सोम इव व्योम्नि कुन्दशोभासितया ।। 136 ।।

तव जिन! शासनविभवो, जयति कलावपि गुणानुशासनविभवः ।
दोषकशासनविभवः, स्तुवन्ति चैनं प्रभाकृशासनविभवः।। 137 ।।


अनवद्यः स्याद्वादस्, तव दृष्टेष्टाऽविरोधतः स्याद्वादः।
इतरो न स्याद्वादो द्वितयविरोधान् मुनीश्वराऽस्याद्वादः ।। 138 ।।

त्वमसि सुरासुरमहितो, ग्रन्थिकसत्त्वाशयप्रणामाऽमहितः ।
लोकत्रयपरमहितो, ऽनावरणज्योतिरुज्ज्वलद्धामहितः ।। 139 ।।


सभ्यानामभिरुचितं, दधासि गुणभूषणं श्रिया चारुचितम् ।
मग्नं स्वस्यां रुचितं, जयसि च मृगलाञ्छनं स्वकान्त्या रुचितम् ।। 140 ।।

त्वं जिन! गतमदमायस्, तव भावानां मुमुक्षुकामद! मायः।
श्रेयान् श्रीमदमायस्, त्वया समादेशि स प्रयामदमाऽयः ।। 141 ।।


गिरिभित्त्यवदानवतः, श्रीमत इव दन्तिनः स्रवद् दानवतः ।
तव शमवादानवतो, गतमूर्जितमपगतप्रमादानवतः ।। 142 ।।

बहुगुणसम्पदसकलं, परमतमपि, मधुरवचनविन्यासकलम्।
नयभक्त्यवतं सकलं, तव देव! मतं समन्तभद्रं सकलम् ।।143।।

।। इति श्री स्वयंभू स्तोत्रम् ।।

.