
श्री वर्धमान स्तोत्र- मुनि श्री प्रणम्य सागर जी महाराज
–o–
(1) अदृश्य को दिखाने वाली स्तुति
श्री वर्धमान जिनदेव पदारविन्द –
युग्म-स्थितांगुलिनखांशु-समूहभासि।
प्रद्योततेऽखिल-सुरेन्द्रकिरीट-कोटि
र्भक्त्या ‘प्रणम्य’ जिनदेव-पदं स्तवीमि ||1||
–o–
(2) चित्त एकाग्र करने वाली स्तुति
नाहंकृतेऽहमिति नात्र चमत्कृतेऽपि,
बुद्धे: प्रकर्षवशतो न च दीनतोऽहम्।
श्रीवीरदेव-गुण-पर्यय-चेतनायां
संलीन-मानस-वशः स्तुतिमातनोमि ||2||
–o–
(3) उत्कृष्ट पुण्य फल प्रदायी स्तुति
उच्चैः कुल-प्रभवता सुखसाधनानि
सोन्दर्य-देह-सुभग-द्रविण-प्रभूतम्।
मन्ये न मोक्ष-पथ-पुण्यफलं प्रशस्तं
यावन्न भक्तिकरणाय मनः प्रयासः ||3||
–o–
–o–
(4) बुद्धि-कला-विकासिनी स्तुति
तस्मादहं शिवदसाधनसाधनाय
भक्तेरवश्य – करणाय समुद्यतोऽस्मि।
नो चिन्तयामि निज-बुद्धि-कला-स्वशक्तिं
तुक् निस्त्रपो भवति मातरि वा समक्षे ||4||
–o–
(5) लक्ष्मी प्राप्ति स्तुति
सामायिके श्रुतविचारण-पाठकाले
यः सन्मतिं स्मरति नित्यरतिं दधानः।
तस्यैव हस्तगत-पुण्य – समस्त-लक्ष्मीं
दृष्ट्वा न कोऽपि कुरुतेऽत्र बुधस्तथैव ||5||
–o–
(6) वंश वृद्धिकर स्तुति
सूते च यो जिनकुले स हि वीरवंशो
वीरं विहाय मनुतेऽन्यकुलाधिदेवम्।
आलोकमाप्य जगतीह रवेः प्रचण्डं
जात्यन्धवद् भ्रमति वा किल कौशिकः सः ||6||
–o–
(7) इच्छित फल देने वाली स्तुति
रागादिदोष-युत-मानस-देवतानां
सेवा किमप्यतिशयं न ददाति कस्य।
सेवां करोतु जिनकल्पतरोः सदैव
सेवा किमल्पफलदाऽप्यफलाऽपि तस्य ||7||
–o–
(8) सर्व अनिष्ट ग्रह निवारक स्तुति
ये व्यन्तरादिसुर-भावन-देव-वृन्दाः
कृत्वा तु यस्य नमनं सुखमाप्नुवन्ति।
देवाधि-देव-शुभ-नाम-पवित्र-मन्त्रो
व्याहन्त्यनिष्टमखिलं किमु विस्मयन्ति ||8||
–o–
(9) कालसर्पादि योग निवारक स्तुति
आस्तां सुदुःषम-कला-कलिकाल-कालस्
त्वन्नाम-दर्श-मननं प्रतिमाप्यलं स्यात्।
हस्तंगते गरुड-मन्त्र-विधान-सिद्धेः
कालादि-सर्प-कृतयोग-भयेन किं स्यात् ||9||
–o–
(10) सर्व रोग हरण स्तुति
रागादि-रोग-हरणाय न कोऽत्र वैद्यः
कर्माष्ट बन्ध-विघटाय रसायनं न।
यो यन्न वेत्ति स न तत्र मतं प्रमाणं
वैद्यस्त्वमेव तव वाक्च रसायनं तत् ||10||
–o–
(11) मिथ्या आग्रह नाशक स्तुति
शस्त्रास्त्रभ्रूविकृतिलोहित-नेत्रवन्तं
क्रोड़ीकृताघ-ममतार्त-विरुपरौद्रम्।
देवं मनन्ति जगति प्रविजृम्भितेपि
चिद्बोधतेजसि सतीह किमन्धता वा ||11||
–o–
(12) पुण्योदयकरी स्तुति
पुण्योदयेन तव तीर्थकराख्यकर्म-
महात्म्यतः कलिलघातिविधिप्रणाशात्।
तीर्थोदयोऽभवदिहात्म-हिताय वीर !
पुण्यद्विषैर्नु महिमा कथमभ्युपेतः ||12||
–o–
(13) समृद्धिवर्धक स्तुति
गर्भोत्सवे प्रतिदिनं पृथुरत्नवृष्टि –
र्जन्मोत्सवे सकल-लोक-सुशान्त-वृत्ति:।
सर्वातिशायनगुणा दश जन्मनस्ते
सूक्ष्मेण को गणयितुं गुणतां तु शक्तः ||13||
–o–
(14) जन्मोत्सव स्तुति
निःस्वेदताऽस्ति वपुषो मलशून्यता ते
स्वाद्याकृतिः परमसंहननं सुरूपम्।
सौलक्ष्य-सौरभ-मपार-समर्थता च
सप्रीतिभाषण-मथा-सम-दुग्धरक्तम् ||14||
–o–
(15) केवलज्ञानोत्सव स्तुति
क्रोशं चतुःशतमिलाफलके सुभिक्षः
शून्यश्च जीववधभुक्त्युपसर्गताया:।
विद्येश्वरः खगमनं नख-केश-वृद्धि-
छाया-विहीन-मनिमेष-मुखं चतुष्कम् ||15||
–o–
(16) आनन्ददायी स्तुति
जन्मक्षणे प्रथित-पर्वत-मन्दराख्ये
सौधर्म-देव-विहितस्नपनोपचारे।
आनन्दनिर्भररसेन सुविस्मितः सन्
‘वीरं’ चकार तव नाम सुरेन्द्रमुख्यः ||16||
–o–
(17) सर्पादि भय निवारक स्तुति
क्रीडाक्षणे सुरतुकैः सह शैशवेऽपि
आयात एव भुवि संगमनाम देवः।
नागस्य रूपमवधार्य भयाय रौद्रं
निर्भीरभू- ‘र्महतिवीर’ इति प्रसिद्धिः ||17||
–o–
(18) संदेह निवारक स्तुति
शङ्कां निधाय ह्रदि तौ गगनं चरन्तौ
ऋद्धीश्वरौ विजय-संजयनामधेयौ।
त्वामीश! वीक्ष्य लघु दूरत एव हर्षात्
प्रोच्चार्य ‘सन्मति’ सुनाम गतौ विशङ्कौ ||18||
–o–
(19) दीक्षा प्रदायी स्तुति
तीर्थेश्वरा विगतकाल- चतुर्थकेऽस्मिन्
संदीक्षिता बहुलसंख्यक – भूमिनाथैः।
जानन्नपि त्वमगमो न हि खेदमेको
वाचंयमो द्विदशवर्षमभी-र्विह्रत्य ||19||
–o–
(20) चारित्र विशुद्धि वर्धक स्तुति
प्राप्त-क्षयोपशममात्रकषायतुर्यो
मत्तेऽपि वृद्धि-मुपयाति परं चरित्रम्।
त्वं ‘वर्धमान’ इति नाम भुवि प्रपन्नो
न्यासे प्रभाव इह नामनि भावमुख्यात् ||20||
–o–
(21) रौद्र उपद्रव नाशक स्तुति
दीक्षोत्सवे तपसि लीनमना बभूव
चैको भवान् प्रविजहार सहिष्णुयोगी।
उज्जैनके पितृवने समधात् समाधि-
मुग्रैरुपद्रवसहेऽ‘प्यतिवीर’ संज्ञा ||21||
–o–
(22) अनिष्ट बंधन विनाशी स्तुति
या बंधनैश्च विविधैः किल संनिबद्धा
संपीडिता विलपिता समयेन नीता ।
भक्त्योल्लसेन विभुतां प्रविलोकमाना
सा चन्दना गतभया तव लोकनेन ||22||
–o–
(23) उत्कृष्ट पद प्रदायी स्तुति
ज्ञानोत्सवेऽशुभदतीव सभा पृथिव्या
गत्वोपरीह जिन! पञ्चसहस्र-दण्डान्।
मिथ्यादृशां न भवतो मुख-दर्श-पुण्य-
मुच्छ्राय एव भगवन्! सुविराजमानः ||23||
–o–
(24) अहंकार नाशी स्तुति
मानोद्धतः सकलवेदपुराणविद् यो
मानादिभूस्थजिन-बिम्बमथेन्द्र-भूतेः।
मानो गतो विलयतामवलोक्य तेऽस्य
सामर्थ्यमन्यपुरुषेषु न दृश्यते तत् ||24||
–o–
(25) संकट मोचन स्तुति
साक्षाद् विलोक्य सचराचरविश्वमन्तः
कैवल्य-बोधवदनन्तसुखस्य भोक्ता।
यैर्मन्यते जिन! सदापरमात्मरूप-
मित्थं कथं वद भवेयु-रिहार्तयुक्ताः ||25||
–o–
(26) कुलदीपक दायी स्तुति
अभ्यन्तरे बहिरपीश! विभासमानो
विश्वं तिरस्कृतमहोऽत्र चिदर्चिषैतत्।
हे ज्ञातृवंश-कुल-दीपक! चेतनायां
यत् सद् विभाति यदसन्न विभाति तत्र ||26||
–o–
(27) सम्यक्त्व प्रदायी स्तुति
त्वं चित्क्रमाक्रमविवर्तविशुद्धि-युक्तः
स्वात्मानमात्मनि विभाव्य विभावमुक्तः।
वैभाविकं वपुरिदं जिन! पश्यसि स्वं
सम्यक्त्वकारणमहो व्यभवत् परेषाम् ||27||
–o–
(28) पराक्रमकारी स्तुति
छत्रत्रयं वदति ते त्रिजगत्प्रभुत्वं
शास्ति स्वयं न मुखतो मदगर्वशून्यः।
सत्यं सतां विधिरयं हि पराक्रमाणां
वीरो जितेन्द्रियमना भगवानसि त्वम् ||28||
–o–
(29) सिंहासन दायी स्तुति
सिंहासनोपरि विराजितुमत्र लोभा
वाञ्छन्त्युपायशतकै र्भुवि चित्तलोभात्।
लाभेऽपि तस्य चतुरङ्गुलमूर्ध्वमेति
निर्लोभता वद भवत्तुलिता क्व चान्यैः ||29||
–o–
(30) छल कपट नाशी स्तुति
ऊर्ध्वं मुहु र्गदति याति च निम्नवृत्तिं
मायाविनां तु मनसा सम वक्रवृत्तिम्।
तेभ्यस्तनु स्तव विभाति सुचामरौघो
मायातिशून्यहृदयो भवदन्यना न ||30||
–o–
(31) मुख तेज वर्धन स्तुति
अस्मिन्भवे भविनि रोषविभावभाजि
चैतन्यवत्यपि मुखं न बिभर्ति तेजः।
भामण्डलं हि परितो तव भासमानं
यद् वीर! वक्ति भविसप्त-भवानुगाथाम् ||31||
–o–
(32) सम्मोहनकारी स्तुति
चित्रं विभो! त्रिभुवनेश! जिनेश! वीर!
न्यूने त्वयि द्रुतविहास्य-रतेन देव!
दिव्यध्वनिं तदपि कर्णयितुं तु भव्या
आयान्ति ते रतिवशादनुयन्ति हास्यम् ||32||
–o–
(33) शोक विनाशक स्तुति
सामीप्यतोऽप्यरतिशोकमतिं विहाय
वैडूर्यपत्र-हरिताभ-मणिप्रशाखः।
सम्प्राप्य नाम लभते विटपोऽप्यशोकः
शोभां नरोऽपि यदि किं तव भक्तितोऽतः ||33||
–o–
(34) आत्महत्या विनाशक स्तुति
यान्ति क्व भो! भविजना भयभीतवश्यात्
कुर्वन्ति किं निजहतिं च जुगुप्सया वा।
संप्राप्नुवन्त्वभयता-मभय-प्रसिद्ध-
पाद-द्वयं वदति वादितदुन्दुभिस्ते ||34||
–o–
(35) कामवेदना नाशक स्तुति
पुष्पाणि सन्ति सकलानि नपुंसकानि
हर्षन्ति तानि वनिता-नर-संगयोगात्।
कामस्त्रिवेदसहितः पततीह कामं
देवेन्द्रपुष्पपतनाच्छलतोऽभिमन्ये ||35||
–o–
(36) भू सम्पदादायी स्तुति
तीर्थंकर-प्रकृतिपुण्य-वशेनभुमि-
र्दृष्टाऽतिकान्त-मणिकाभरणैक-कान्ता।
स्वच्छा च भावनसुरैर्विहितोपकारा
धान्यादि-पुष्पविभवै-र्हसतीव नारी ||36||
–o–
(37) सुभिक्ष करी स्तुति
वायुः प्रभोः पथविहारदिशानुसारी
वायुः सुगन्धघन-मिश्रित-सौख्यकारी।
वायुः सुगन्ध-जल-वर्षण-चित्तहारी
वायुः सुरस्त्रिदशराज-निदेश-धारी ||37||
–o–
(38) चित्त हरण करी स्तुति
न्यासो हि यत्र चरणस्य विनिर्मितानि
पद्मानि सौरभमयानि सुवर्णकानि।
देवैर्नभांसि विहृतौ कुसुमार्पितानि
ध्यानान् मनांसि यदि मेऽपि किमद्भुतानि ||38||
–o–
(39) मित्र वर्धक स्तुति
दिव्यध्वनि-र्वहति यस्तु मुखारविन्दा-
दर्धं च तस्य खलु मागधजातिदेवाः।
दूरं तु वीर! सहजेन विसर्पयन्ति
मैत्रीं मिथः सदसि भूरि विभावयन्ति ||39||
–o–
(40) निर्मल हृदय करी स्तुति
नैर्मल्यभाव-मभितो धरतीशमाप्तं
दिग् राजिका दश विभो! गगनं विधूल्यः।
सर्वर्तु-पुष्प-फल-पूरित-भूरुहाश्च
व्याह्वान-मर्पित-सुरौघ इतः करोति ||40||
–o–
(41) धर्म चक्र प्रवर्तनकरी स्तुति
नाशीर्वचः प्रहसनं प्रविलोकवार्ता
तीर्थप्रवर्तनपरो जगतोऽधिनाथः।
पश्यन्तु तस्य ककुभन्तर-भासमानं
तेजोधिकाग्र-गमनं पृथुधर्मचक्रम् ||41||
–o–
(42) सर्वसिद्धि दायक स्तुति
चित्तं मदीयमिह लीनमुत त्वयि स्यात्
त्वद्रूपभा मयि मनः-परमाणु-देशे।
जानामि नो किमिति संघटते समेति
किं वाम्रबीज-गणनेन रसं बुभुक्षोः ||42||
–o–
(43) आत्मगुणों की शक्तिवर्धक स्तुति
भक्तिश्च सा स्मर-रुषाग्रि-घनौघवर्षा
मुक्तिश्च सा स्तवनतः स्वयमेति हर्षात्।
शक्तिश्च तृप्यतितरां गुणपूर्णतायां
ज्ञप्तिश्च विंदति भृशं तव चेतनाभाम् ||43||
–o–
(44) निश्चिन्त करने वाली स्तुति
भृत्योऽपि भूपतिमरं तु सदाश्रयामि
प्रोत्थाय मस्तक-मतीव-मदेन याति।
त्रैलोक्यनाथ-पद-पंकज-भक्ति-भक्तो
निश्चिन्तितां यदि दधाति तु विस्मयः किम् ||44||
–o–
(45) हिंसा नाशक स्तुति
सत्यं त्वया सुविहिताऽत्र मुनेरहिंसा
बाह्यान्तरङ्ग-यम-माप्य समाचरत् ताम्।
अन्तः प्रभाव इति केवलबोध-सूति-
र्यज्ञार्थ-हिंसन-निवृत्ति-बहि-र्विभूतिः ||45||
–o–
(46) मनोरथ सफलकरी स्तुति
ज्ञानस्य वा सुखगुणस्य च कस्यचिच्च
पर्यायमात्र कलिकामह-माप्तुकामः।
अन्तस्त्वयि स्वगुण-पर्यय-भासमाने-
प्यस्मादृशः कथमहो नु भवेत् सतृष्णः ||46||
–o–
(47) मुख नेत्रादि पीड़ा विनाशक स्तुति
अत्यंत-पूत-चरणं तव सर्व-वन्द्यं
चित्ते निधाय यदहं स्वमुखं विपश्यन्।
उल्लासयामि मुखदर्पण-दर्शनात्ते
सीदामि साम्यविकलात् स्वमुखेऽतिवीर! ||47||
–o–
(48) सौभाग्यवर्धक स्तुति
सद्-द्रव्यसंयम-पथे प्रथमं प्रयुज्य
स्वं भावसंयमनिधौ तदनुव्यधायि।
नोल्लंघयन् क्रमविधिं क्रमविद् विधिज्ञो
मार्तण्डवच्चरति वै महतां स्वभावः ||48||
–o–
(49) अकास्मिक फल प्रदायी स्तुति
सापेक्षतोऽपि निरपेक्षगतोऽसि नूनं
बद्धोपि मुक्त इव मुक्तिरतोऽसि बद्धः।
एकोऽप्यनन्त इति भासि न ते विरोधः
स्वात्मानुशासनयुते जिनशासनेऽपि ||49||
–o–
(50) धर्मानुराग वर्धक स्तुति
दृष्टोऽपि नो श्रुतिगतो न कदापि पूर्वं
स्पृष्टो मया न महिमानमहं न वेद्मि।
देवेश! भक्तिरसनिर्भर-मानसेऽस्मिन्
प्रत्यक्षतोऽप्यधिकरागमतिः परोक्षे ||50||
–o–
(51) विमुक्त व्यक्ति मेलापक स्तुति
अद्यापि ते प्रवचनाम्बु मनः पिपासा
पीत्वाऽपि तृष्यति विलोक्य पुन-र्दिदृक्षा।
एतन्मनोरथयुगस्य यदा हि पूर्तिः
साक्षाद् भवेन्मम विमुक्तिकथा तदाऽलम् ||51||
–o–
(52) परलोक सुख करी स्तुति
पुण्यं त्वयोदित-तपोयम-पालनेन
भक्त्योर्जितेन भविनां शिवसाधनं ते।
पुण्यं निदानसहितं सुरसौख्यकामं
बन्धप्रदं न हि नयं समवैति जैनः ||52||
–o–
(53) रत्नत्रय प्रदायी स्तुति
सम्यक्त्वमेव जिनदेव तवैव भक्ति-
र्ज्ञानं तदेव चरितं व्यवहारमित्थम्।
तावत् करोतु भविकस्त्वदभेदबुद्धया
मुक्त्यंगना-रमणतात्म-सुखं न यावत् ||53||
–o–
(54) प्रशंसा वर्धक स्तुति
रूपेण मुह्यसि जनं त्वममोह इष्टो
लोभं विवर्धयसि भूरि निशाम्य वाचम्।
तत्राप्युशन्ति सुजनं सुजना भवन्तं
दोषा गुणाय ननु चन्द्रकरैर्निदाघे ||54||
–o–
(55) गुप्त सम्पदा दायक स्तुति
तुभ्यं ददामि कथयन् प्रददाति कश्चिन्
मौनेन दित्सति भवानति-गुप्तरुपात्।
सार्वाय वा रविरिहैव निरीह-बन्धु-
र्भव्याय तेन भुवने परमोऽसि दाता ||55||
–o–
(56) याचक संतुष्टि करी स्तुति
दित्सा प्रभो! त्वयि यदि प्रविदातुमस्ति
दातव्य एव मम वै मनसि स्थितार्थः।
दाता समो न तव मत्सम-याचको न
कांक्षाम्यहं किमपि नो भवतो भवन्तम् ||56||
–o–
(57) यात्रा विघ्न निवारक स्तुति
एवं चतुर्दशतिथा-वपहृत्य योगान्
ध्यानात् तुरीयशुभशुक्ल-वशात् प्रमुक्तः।
पावापुर-प्रमद-पद्म-सरोवरस्थो
निर्वाण-माप्य भुवनस्य शिरः प्रतस्थे ||57||
–o–
(58) अन्तराय निवारक स्तुति
नष्टाष्टकर्मरिपुबाधक! ते नमोस्तु
स्वर्गापवर्ग-सुखदायक! ते नमोस्तु ।
विश्वैक-कीर्ति-गुण नायक! ते नमोस्तु
विघ्नान्तराय-विधि-वारक! ते नमोस्तु ||58||
–o–
(59) विजेता कारक स्तुति
जेता त्वमेव समनः सकलेन्द्रियाणां
नेता त्वमेव गुणकांक्षि-तपोधनानाम्।
भेत्ता त्वमेव घनकर्ममहीधराणां
ज्ञाता त्वमेव भगवन्! सचराचराणाम् ||59||
–o–
(60) अन्य मन्त्र तन्त्र प्रभाव रोधक स्तुति
हे वीर! सिद्ध-गतिभूषण! वीतकाम!
तुभ्यं नमोऽन्त्य-जिन-तीर्थकर! प्रमाण!।
सर्वज्ञदेव! सकलार्तविनाशकाय
तुभ्यं नमो नतमुनीन्द्र-गणेशिताय ||60||
–o–
(61) जल भय निवारक स्तुति
ते तीर्थपुण्यजलमञ्जनशुद्धभूता
भव्याः पुरा समभवन् कलिपापपूताः।
नाना-नयोपनय-सप्त-विभङ्ग-भङ्गे
तीर्थे निमञ्जनविधेः किमु वञ्चितः स्याम् ||61||
–o–
(62) संसार भय तारक स्तुति
बालेऽपि पालक इति प्रतिभासते यो
यो यौवनेऽपि मदकाम-भटाभिमर्दी।
संसार-सागर-तट-स्थित-पुण्यभाजां
सिद्धिं प्रपित्सुरभवत् तमहं नमामि ||62||
–o–
(63) उत्तम शरण दायक स्तुति
लोकोत्तमोऽसि जगदेकशरण्यभूतः
श्रेयान् त्वमेव भवतारकमुख्यपोतः।
ध्यानेऽपि चिन्तनमतौ सुकथा-प्रसङ्गे
त्वां संस्मरामि विनमामि च चर्चयामि ||63||
–o–
(64) सर्व कार्य सफलतादायक स्तुति
यः संस्तवं प्रकुरुते भुवि भावभक्त्या
संस्थाप्य चित्त-कमले श्रृणुतेऽत्र चैतम्।
विघ्नं विहत्य सफलीभवतीष्टकार्ये,
ज्ञानं सुखं स लभते क्षणवर्धमानम् ||64||
